|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.77. अध्यायः 077
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
गुरुनियोगाद्दिव्यपुष्पनयनार्थं गतेन विपुलेन मध्येमार्गं नरवरमिथुनात्स्वगतिनिन्दाश्रवणम्॥ 1 ॥ निन्दितगतिप्रापकस्वदुश्चरितं चिन्तयता तेन चिराय तदनुस्मरणम्॥ 2 ॥

Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
विपुलस्त्वकरोत्तीव्रं तपः कृत्वा गुरोर्वचः।
तपोयुक्तमथात्मानममन्यत स वीर्यवान्॥ 13-77-1(84501)
स तेन कर्मणा स्वर्गं पृथिवीं पृथिवीपते।
चचार गतभीः प्रीतो लब्धकीर्तिवरो नृप॥ 13-77-2(84502)
उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः।
कर्मणा तेन कौरव्य तपसा विपुलेन च॥ 13-77-3(84503)
अथ काले व्यतिक्रान्ते कस्मिंश्चित्कुरुनन्दन।
रुच्या भगिन्या आदानं प्रभूतदनधान्यवत्॥ 13-77-4(84504)
एतस्मिन्नेव काले तु दिव्या काचिद्वराङ्गना।
बिभ्रती परमं रूपं जगामाथ विहायसा॥ 13-77-5(84505)
तस्याः शरीरात्पुष्पाणि पतितानि महीतले।
तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत॥ 13-77-6(84506)
तान्यगृह्णात्ततो राजन्रुचिर्ललितलोचना।
तदा निमन्त्रकस्तस्या अङ्गेभ्यः क्षिप्रमागमत्॥ 13-77-7(84507)
तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती।
भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै॥ 13-77-8(84508)
पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी।
आमन्त्रिता ततोऽगच्छद्रुचिरङ्गपतेर्गृहम्॥ 13-77-9(84509)
पुष्पाणि तानि दृष्ट्वा तु तदाङ्गेन्द्रवराङ्गना।
भगिनीं चोदयामास पुष्पार्थे चारुलोचना॥ 13-77-10(84510)
सा भर्त्रे सर्वमाचष्ट रुचिः सुरुचिरानना।
भगिन्या भाषितं सर्वमृषिस्तच्चाभ्यनन्दत॥ 13-77-11(84511)
ततो विपुलमानाय्य देवशर्मा महातपाः।
पुष्पार्थे चोदयामास गच्छगच्छेति भारत॥ 13-77-12(84512)
विपुलस्तु गुरोर्वाक्यमविचार्य महातपाः।
स तथेत्यब्रवीद्राजंस्तं च देशं जगाम ह॥ 13-77-13(84513)
यस्मिन्देशे तु तान्यासन्पतितानि नभस्तलात्।
अम्लानान्यपि तत्रासन्कुसुमान्यपराण्यपि॥ 13-77-14(84514)
स ततस्तानि जग्राह दिव्यानि रुचिराणि च।
प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत॥ 13-77-15(84515)
सम्प्राप्य तानि प्रीतात्मा गुरोर्वचनकारकः।
तदा जगाम तूर्णं च चम्पां चम्पकमालिनीम्॥ 13-77-16(84516)
स वने निर्जने तात ददर्श मिथुनं नृणाम्।
चक्रवत्परिवर्तन्तं गृहीत्वा पाणिना करम्॥ 13-77-17(84517)
तत्रैकस्तूर्णमगमत्तत्पदे च विवर्तयन्।
एकस्तु न तदा राजंश्चक्रतुः कलहं ततः॥ 13-77-18(84518)
त्वं शीघ्रं गच्छसीत्येकोऽब्रवीन्नेति तथाऽपरः।
पतितेति च तौ राजन्परस्परमथोचतुः॥ 13-77-19(84519)
तयोर्विस्पर्धतोरेवं शपथोऽयमभूत्तदा।
सहसोद्दिश्य विपुलं ततो वाक्यमथोचतुः॥ 13-77-20(84520)
आवयोरनृतं प्राह यस्तस्याभूद्द्विजस्य वै।
विपुलस्य परे लोके या गतिः सा भवेदिति॥ 13-77-21(84521)
एतच्छ्रुत्वा तु विपुलो विषण्णवदनोऽभवत्।
एवं तीव्रतपाश्चाहं कष्टश्चायं परिश्रमः॥ 13-77-22(84522)
मिथुनस्यास्य किं मे स्यात्कृतं पापं यथा गतिः।
अनिष्टा सर्वभूतानां कीर्तिताऽनेन मेऽद्य वै॥ 13-77-23(84523)
एवं सञ्चिन्तयन्नेव विपुलो राजसत्तम।
अवाङ्मुखो दीनमना दध्यौ दुष्कृतमात्मनः॥ 13-77-24(84524)
ततः षडन्यान्पुरुषानक्षैः काञ्चनराजतैः।
अपश्यद्दीव्यमानान्वै लोभामर्षान्वितांस्तथा॥ 13-77-25(84525)
कुर्वतः शपथं तेन यः कृतो मिथुनेन तु।
विपुलं वै समुद्दिश्य तेपि वाक्यमथाब्रुवन्॥ 13-77-26(84526)
लोभमास्थाय योऽस्माकं विषमं कर्तुमुत्सहेत्।
विपुलस्य परे लोके या गतिस्तामवाप्नुयात्। 13-77-27(84527)
एतच्छ्रुत्वा तु विपुलो नापश्यद्धर्मसङ्करम्॥
जन्मप्रभृति कौरव्य कृतपूर्वमथात्मनः॥ 13-77-28(84528)
स प्रदध्यौ तथा राजन्नग्नावग्निरिवाहितः।
दह्यमानेन मनसा शापं श्रुत्वा तथाविधम्॥ 13-77-29(84529)
तस्य चिन्तयतस्तात बह्वीर्वाचो निशम्य तु।
इदमासीन्मनसि च रुच्या रक्षणकारितम्॥ 13-77-30(84530)
लक्षणं लक्षणेनैव वदनं वदनेन च।
विधाय न मया चोक्तं सत्यमेतद्गुरोस्तथा॥ 13-77-31(84531)
एतदात्मनि कौरव्य दुष्कृतं विपुलस्तदा।
अमन्यत महाभाग तथा तच्च न संशयः॥ 13-77-32(84532)
स चम्पां नगरीमेत्य पुष्पाणि गुरवे ददौ।
पूजयामास च गुरुं विधिवत्स गुरुप्रियः॥ ॥ 13-77-33(84533)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तसप्ततितमोऽध्यायः॥ 77 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-77-4 आदीयतेऽस्मिन्बान्धवैर्दत्तं उपायनादिकं स आदानं ******द्युत्सवः। प्रभूतं बहुधनादिकं यत्र॥ 7-77-7 निमन्त्रकः आकारणार्थं दूतः॥ 7-77-18 तत्पदे इतरस्य पदे पांसुषु व्यक्ते आकर्षणेन विवर्तयन् विषमतां नयन्॥ 7-77-21 वचः श्रुत्वा तथाविधमिति ध.पाठः॥ 7-77-30 रुच्याः गुरुभार्यायाः॥ 7-77-31 लक्षणं स्त्रीपुंसयोरसाधारणं चिह्नं विधाय एकीकृत्य॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|